गुरुवार, 26 दिसंबर 2013

इशावाश्योपनिषद

इशावाश्योपनिषद

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते !
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते !!


ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत् !
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विध्दनम् !!-1

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः !
एवं त्वयि नान्यथेतोऽस्ति कर्म लिप्यते नरे !!-2

असूर्या नाम ते लोका अन्धेन तमसाऽऽवृताः !
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः !!-3

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् !
तध्दावतोऽन्यनत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति !!-4

तदेजति तन्नैजति तद्दूरे तद्वन्तिके !
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः !!-5

यस्तु सर्वाणि भूतान्यात्मन्येवानु पश्यति !
सर्वभूतेषु चात्मानं ततो विजुगुप्सते !!-6

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः !
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः !!-7

पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुध्दमपाप विध्दम् !
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यःसमाभ्यः !!-8

अन्धं तमः प्रविशन्ति ये विद्यामुपासते !
ततो भूय इव ते तमो विद्यायां रताः !!-9

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया !
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे !!-10

विद्यां चाविद्यां यस्तद्वेदोभयं सह !
अविद्यया मृत्युं तर्त्वां विद्ययाऽमृतमश्नुते !!-11

अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते !
ततो भूय इव ते तमो संभूत्यां रताः !!-12

अन्यदेवाहुः संभवादन्यदाहुरसंभवात् !
इति शुश्रुम धीराणां ये नस्तद्विचचछरे !!-13

संभूतिं च विनाशं च यस्तद्वेदोभयं सह !
विनाशेन मृत्युं तीत्व्रा संभूत्यामृतमश्नुते !!-14

हिरण्मयेन पपात्रेण सत्यस्यापिहितं मुखम् !
तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये !!-15

पूषन्नेकर्षे यम सूर्य प्राजापत्यव्यूहश्मीन्समूह !
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरूषः सोऽहमस्मि !!-16

वायुरनिलममृतमथेदं भस्मान्तं शरीरम् !
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर !!-17

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् !
युयोध्यस्मज्जुहुराणमेनो भूयिष्टां ते नमउक्तिं विधेम !!-18


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें